(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.66. अध्यायः 066
(अथ संभवपर्व ॥ 7 ॥)
Mahabharata - Adi Parva - Chapter Topics
अदित्यादिदक्षकन्यावंशकथनम्॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-66-0x(320)(2816)
अथ नारायणेनेन्द्रश्चकार सह संविदम्।
अवतर्तुं महीं स्वर्गादंशतः महितः सुरैः॥ 1-66-1(2817)
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः।
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह॥ 1-66-2(2818)
तेऽमरारिविनाशाय सर्वलोकहिताय च।
अवतेरुः क्रमेणैव महीं स्वर्गाद्दिवौकसः॥ 1-66-3(2819)
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च।
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः॥ 1-66-4(2820)
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा।
पुरुषादानि चान्यानि जघ्नुः सत्वान्यनेकशः॥ 1-66-5(2821)
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा।
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम॥ 1-66-6(2822)
जनमेजय उवाच। 1-66-7x(321)
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा।
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्॥ 1-66-7(2823)
श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः।
प्राणिनां चैव सर्वेषां संभवं वक्तुमर्हसि॥ 1-66-8(2824)
वैशम्पायन उवाच। 1-66-9x(322)
हन्त ते कथयिष्यामि नमस्कृत्य स्वयंभुवे।
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम्॥ 1-66-9(2825)
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः।
मरीचिरत्र्यह्गिरसौ पुलस्त्यः पुलहः क्रतुः॥ 1-66-10(2826)
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः।
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश॥ 1-66-11(2827)
अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा।
क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः॥ 1-66-12(2828)
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत।
एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम्॥ 1-66-13(2829)
अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः।
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत॥ 1-66-14(2830)
धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च।
भगो विवस्वान्पूषा च सविता दशमस्तथा॥ 1-66-15(2831)
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते।
जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः॥ 1-66-16(2832)
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः।
नाम्ना ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः॥ 1-66-17(2833)
प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम्।
अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ॥ 1-66-18(2834)
प्रह्लादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत।
विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत॥ 1-66-19(2835)
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्।
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः॥ 1-66-20(2836)
रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः।
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत॥ 1-66-21(2837)
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः।
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः॥ 1-66-22(2838)
असिलोमा च केशी च दुर्जयश्चैव दानवः।
अयःशिरा अश्वशिरा अश्वशह्कुश्च वीर्यवान्॥ 1-66-23(2839)
तथा गगनमूर्धा च वेगवान्केतुमांश्च सः।
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाऽजकस्तथा॥ 1-66-24(2840)
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः।
इषुपादेकचक्रश्च विरूपाक्षहराहरौ॥ 1-66-25(2841)
निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा।
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा।
एते ख्याता दनोर्वंशे दानवाः परिकीर्तिताः॥ 1-66-26(2842)
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ।
अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा॥ 1-66-27(2843)
इमे च वंशाः प्रथिताः सत्ववन्तो महाबलाः।
दनुपुत्रा महाराज दश दानववंशजाः॥ 1-66-28(2844)
एकाक्षो मृतपो वीरः प्रलम्बनरकावपि।
वातापिः शत्रुतपनः शठश्चैव महासुरः॥ 1-66-29(2845)
गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः।
असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत॥ 1-66-30(2846)
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्।
सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रप्रमर्दनम्॥ 1-66-31(2847)
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्।
गणः क्रोधवशो नाम क्रूरकर्माऽरिमर्दनः॥ 1-66-32(2848)
दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाः।
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः॥ 1-66-33(2849)
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः।
प्रविख्याता महावीर्या दानवेषु परन्तपाः॥ 1-66-34(2850)
विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च।
क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः॥ 1-66-35(2851)
असुराणामुपाध्यायः शक्रस्त्वषिसुतोऽभवत्।
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः॥ 1-66-36(2852)
त्वष्टा धरस्तथात्रिश्च द्वावन्यौ रौद्रकर्मिणौ।
तेजसा सूर्यसंकाशा ब्रह्मलोकपरायणाः॥ 1-66-37(2853)
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्।
असुराणां सुराणां च पुराणे संश्रुतो मया॥ 1-66-38(2854)
एतेषां यदपत्यं तु न शक्यं तदशेषतः॥
प्रसंख्यातुं महीपाल गुणभूतमनन्तकम्॥ 1-66-39(2855)
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ।
आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिताः॥ 1-66-40(2856)
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः।
कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः॥ 1-66-41(2857)
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः॥ 1-66-42(2858)
सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः।
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी॥ 1-66-43(2859)
तथा शालिशिरा राजन्पर्जन्यश्च चतुर्दशः।
कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः॥
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः॥ 1-66-44(2860)
अथ प्रभूतान्यन्यानि कीर्तयिष्यामि भारत।
अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम्॥ 1-66-45(2861)
अरूपां सुभगां भासीमिति प्राधा व्यजायत।
सिद्धः पूर्णश्च बर्हिश्च पूर्णायुश्च महायशाः॥ 1-66-46(2862)
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः।
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा॥ 1-66-47(2863)
इत्येते देवगन्धर्वाः प्राधेयाः परिकीर्तिताः।
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्॥ 1-66-48(2864)
अरिष्टाऽसूत सुभगा देवी देवर्षितः पुरा।
अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा॥ 1-66-49(2865)
अरुणा रक्षिता चैव रम्बा तद्वन्मनोरमा।
केशिनी च सुबाहुश्च सुरता सुरजा तथा॥ 1-66-50(2866)
सुप्रिया चातिबाहुश्च विख्यातौ च हाहा हूहूः।
तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः॥ 1-66-51(2867)
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा।
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम्॥ 1-66-52(2868)
इति ते सर्वभूतानां संभवः कथितो मया।
यथावत्संपरिख्यातो गन्धर्वाप्सरसां तथा॥ 1-66-53(2869)
भुजंगानां सुपर्णानां रुद्राणां मरुतां तथा।
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम्॥ 1-66-54(2870)
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः।
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता॥ 1-66-55(2871)
इमं तु वंशं नियमेन यः पठे-
न्महात्मनां ब्राह्मणदेवसन्निधौ।
अपत्यलाभं लभते स पुष्कलं
श्रियं यशः प्रेत्य च शोभनां गतिम्॥ ॥ 1-66-56(2872)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षट्षष्टितमोऽध्यायः॥ 66 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-66-2 क्षयात् स्थानात्॥ 1-66-16 जघन्यजः पश्चाज्जातः॥ 1-66-32 क्रूरायाः क्रोधायाः॥ 1-66-39 गुणभूतप्रधानरूपम्॥ षट्षष्टितमोऽध्यायः॥ 66 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.